|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.69. अध्यायः 069
Mahabharata - Sabha Parva - Chapter Topics
शिशुपाले सन्नद्धे सति उत्पातदर्शनेन युधिष्ठिरस्य प्रश्ने नारदेन तत्तदुत ्पातानां विशिष्य फलकथनम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच॥
ततो युद्धाय संनद्धं चेदिराजं युधिष्ठिरः।
दृष्ट्वा मतिमतां श्रेष्ठो नारदं समुवाच ह॥ 2-69-1(13987)
युधिष्ठिर उवाच॥ 2-69-2x(1498)
अन्तरिक्षे च भूमौ च तेऽस्त्यविदितं क्वचित्।
यानि राजविनाशाय भौमानि च खगानि च॥ 2-69-2(13988)
निमित्तानीह जायन्ते उत्पाताश्च पृथग्विधाः।
एतदित्छामि कार्त्स्न्येन श्रोतुं त्वत्तो महामुने॥ 2-69-3(13989)
वैशम्पायन उवाच। 2-69-4x(1499)
इत्येवं मितमान्विप्रः कुरुराजस्य धीमतः।
पृच्छतः सर्वमव्यग्रमाचचक्षे महायशाः॥ 2-69-4(13990)
नारद उवाच॥ 2-69-5x(1500)
पराक्रमं च मार्गं च संनिपातं समुच्छ्रयम्।
आरोहणं कुरुश्रेष्ठ अन्योन्यं प्रतिसर्पणम्॥ 2-69-5(13991)
पश्मीनां व्यतिसंसर्गं व्यायामं वृत्तिपीडनम्।
दर्शनादर्शनं चैव अदृश्यानां च दर्शनम्॥ 2-69-6(13992)
हानिं वृद्धिं च ह्रासं च वर्णस्थानं बलाबलम्।
सर्वमेतत्परीक्षेत ग्रहाणां ग्रहकोविदः॥ 2-69-7(13993)
भौमाः पूर्वं प्रवर्तन्ते खेचराश्च ततः परम्।
उत्पद्यन्ते च लोकेऽस्मिन्नुत्पाता देवनिर्मिताः॥ 2-69-8(13994)
यदा तु सर्वभूतानां छाया न परिवर्तते।
अपरेण गते सूर्ये तत्पराभवलक्षणम्॥ 2-69-9(13995)
अच्छाये विमलच्छाया प्रतिच्छायेव दृश्यते।
यत्र चैत्यकवृक्षाणां तत्र विद्यान्महद्भयम्॥ 2-69-10(13996)
शीर्णपर्णप्रवालाश्च शुष्कपर्णाश्च चैत्यकाः।
अपभ्रष्टप्रवालाश्च तत्राभावं विनिर्दिशेत्॥ 2-69-11(13997)
स्निग्धपर्णप्रवालाश्च दृश्यन्ते यत्र चैत्यकाः।
ईहमानाश्च वृक्षाश्च भावस्तत्र न संशयटः॥ 2-69-12(13998)
पुष्पे पुष्पं प्रजायेत फले वा फलमाश्रितम्।
राजा वा राजमात्रो वा मरणायोपपद्यते॥ 2-69-13(13999)
प्रावृट्छरदि हेमन्ते वसन्ते वापि सर्वशः।
आकालिकं पुष्पफलं राष्ट्रक्षोभं विनिर्दिशेत्॥ 2-69-14(14000)
नदीनां स्त्रोतसोऽकाले द्योतयन्ति महाभयम्।
वनस्पतिः पूज्यमानः पूजितोऽपूजितोऽपि वा॥ 2-69-15(14001)
यदा भज्येत वातेन भिद्यते नमितोऽपि वा।
अग्निवायुभयं विद्याच्छ्रेष्ठो वापि विनश्यति॥ 2-69-16(14002)
दिशः सर्वाश्च दीप्यन्ते जायन्ते राजविभ्रमाः।
भिद्यमानो यदा वृक्षो निनदेच्चापि पातितः।
सह राष्ट्रं च पतितं नतं वृक्षं प्रपातयेत्॥ 2-69-17(14003)
अथैनं छेदयेत्कश्चित्प्रतिक्रुद्धो वनस्पतिः।
छेत्ता भेत्ता पतिश्चैव क्षिप्रमेव नशिष्यति॥ 2-69-18(14004)
देवतानां च पतनं मष्टपानां च पातनम्।
अचलानां प्रकम्पश्च तत्पराभवलक्षणम्॥ 2-69-19(14005)
निशि चेन्द्रधनुर्दृष्टं ततोपि च महद्भयम्।
तद्द्रष्टरेव भीतिः स्यान्नान्येषां भरतर्षभ॥ 2-69-20(14006)
रात्राविन्द्रधनुर्दृष्ट्वा तद्राष्ट्रं परिवर्जयेत्॥ 2-69-21(14007)
अर्चा यत्र प्रनृत्यन्त नदन्ति च हसन्ति च।
उन्मीलन्ति निमीलन्ति राष्ट्रक्षोभं विनिर्दिशेत्॥ 2-69-22(14008)
शिला यदि प्रसिञ्चन्ति स्नेहांश्चोदकसम्भवान्।
अन्यद्वा विकृतं किञ्चित्तद्भयस्य निदर्शनम्॥ 2-69-23(14009)
म्रियन्ते वा महामात्रा राजा सपरिवारकः।
पुरस्य या भवेद्व्याधी राष्ट्रे देशे च विभ्रमाः॥ 2-69-24(14010)
देवतानां यदाऽऽवासे राज्ञां वा यत्र वेश्मनि।
भाण्डागारायुधागारे निविशेत यदा मधु॥ 2-69-25(14011)
सर्वं तदा भवेत्स्थानं हन्यमानं बलीयसा।
आगन्तुकं भयं तत्र भवेदित्येव निर्दिशेत्॥ 2-69-26(14012)
पादपश्चैव यो यत्र रक्तं स्रवति शोणितम्।
दन्ताग्रात्कुञ्जरो वापि शृङ्गाद्वा वृषभस्तथा॥ 2-69-27(14013)
पादपाद्राष्ट्रिविभ्रंशः कुञ्जराद्राजविभ्रमः।
गोब्राह्मणविनाशः स्याद्वृवभस्येति निर्दिशेत्॥ 2-69-28(14014)
छत्रं नरपतेर्यत्र निपतेत्पृथिवीतले।
सराष्ट्रो नृपती राजन्क्षिप्रमेव विनश्यति॥ 2-69-29(14015)
देवागारेषु वा यत्र राज्ञो वा यत्र वेश्मनि।
विकृतं यदि दृश्येत नागावासेषु वा पुनः॥ 2-69-30(14016)
तस्य देशस्य पीडा स्याद्राज्ञो जनपदस्य वा।
अनावृष्टिभयं घोरमतिदुर्भिक्षमादिशेत्॥ 2-69-31(14017)
अर्चाया बाहुभङ्गेन गृहस्थानां भयं भवेत्।
भग्ने प्रहरणे विद्यात्सेनापतिविनाशनम्॥ 2-69-32(14018)
आगन्तुका तु प्रतिमा स्थानं यत्र न विन्दति।
जभ्यन्तरेण षण्मासाद्राजा त्यजति तत्पुरम्॥ 2-69-33(14019)
प्रदीर्यते मही यत्र विनदत्यपि पात्यते।
म्रियते तत्र राजा च तत्र राष्ट्रं विनश्यति॥ 2-69-34(14020)
एणीपदान्वा सर्पान्वा डुण्डुभानथ दीप्यकान्।
मण्डूको ग्रसते यत्र तत्र राजा विनश्यति॥ 2-69-35(14021)
अभिन्नं वाप्यपक्वं वा यत्रान्नमुपचीयते।
जीर्यन्ते वा म्रियन्ते वा तदन्नं नोपभुञ्जते॥ 2-69-36(14022)
उदपाने च यत्रापो विवर्धन्ते युधिष्ठिर।
स्थावरेषु प्रवर्तन्ते निर्गच्छेन्न पुनस्ततः॥ 2-69-37(14023)
अपादं वा त्रिपादं वा द्विशीर्षं वा चतुर्भुजम्।
स्त्रियो यत्र प्रसूयन्ते ब्रूयात्तत्र पराभवम्॥ 2-69-38(14024)
अजैडकाः स्त्रियो गावो ये चान्ये च वियोनयः।
विकृतानि प्रजायन्ते तत्र तत्र पराभवः॥ 2-69-39(14025)
नदी यत्र प्रतिस्रोता आवहेत्कलुषोदकम्।
दिशश्च न प्रकाशन्ते तत्पराभवलक्षणम्॥ 2-69-40(14026)
एतानि च निमित्तानि यानि चान्यानि भारत।
केशवादेव जायन्ते भौमानि च खगानि च॥ 2-69-41(14027)
चन्द्रादित्यौ ग्रहाश्चैव नक्षत्राणि च भारत।
वायुरग्निस्तथा चापः पृथिवी च जनार्दनात्॥ 2-69-42(14028)
यस्य देशस्य हानिं वा वृद्धिं वा कर्तुमिच्छति।
तस्मिन्देशे निमित्तानि तानि तानि करोत्ययम्॥ 2-69-43(14029)
सोसौ चेदिपतेस्तात विनाशं समुपस्थितम्।
निवेदयति गोविन्दः स्वैरुपायैर्न संशयः॥ 2-69-44(14030)
इयं प्रचलिता भूमिरशिवा वान्ति मारुताः।
राहुश्चाप्यपतत्सोममपर्वणि विशाम्पते॥ 2-69-45(14031)
सनिर्घाताः पतन्त्युल्कास्तमः सञ्जायते भृशम्।
चेदिराजविनाशाय हरिरेष विजृम्भते॥ 2-69-46(14032)
वैशम्पायन उवाच॥ 2-69-47x(1501)
एवमुक्त्वा तु देवर्षिर्नारदो विरराम ह।
ताभ्यां पुरुषसिंहाभ्यां तस्मिन्युद्ध उपस्थिते। 2-69-47(14033)
ददृशुर्भूमिपालास्ते घोरानौत्पातिकान्बहून्॥
तत्र वै दृश्यमानानां दिक्षु सर्वासु भारत। 2-69-48(14034)
अश्रूयन्त तदा राजञ्छिवानामशिवा रवाः॥
ररास च मही कृत्स्ना सवृक्षवनपर्वता। 2-69-49(14035)
अपर्वणि च मध्याह्ने मूर्यं स्वर्भानुरग्रसत्॥
ध्वजाग्रे चेदिराजस्य सर्वरत्नपरिष्कृते। 2-69-50(14036)
अपतत्खाच्च्युतो गृध्रस्तीक्ष्णतुण्डः परन्तप॥
आरण्यैः सहसा हृष्टा ग्राम्याश्च मृगपक्षिणः। 2-69-51(14037)
चुक्रुशुर्भैरवं तत्र तस्मिन्युद्ध उपस्थिते॥
एवमादिनि घोराणि भौमानि च स्वगानि च। 2-69-52(14038)
औत्पातिकान्यदृश्यन्त सङ्क्रुद्धे शार्ङ्गधन्वनि॥ ॥ 2-69-53(14039)
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि एकोनसप्ततितमोऽध्यायः॥ 69 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|